श्रीमद्भागवतम् | पारायणम्
स्कन्ध ०१ | अध्याय ०१
नैमिषारण्य में ऋषियों की विचारणा
श्लोकपाठ
अथ श्रीमद्भागवत पारायण ।
प्रथम स्कन्धे प्रथमोऽध्यायः ॥
ॐ नमो भगवते वासुदेवाय ॥
जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥
॥ ०१.०१.०१ ॥
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥
॥ ०१.०१.०१ ॥
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सताम् ।
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किम्वा परैरीश्वरः ।
सद्यः हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥
॥ ०१.०१.०२ ॥
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किम्वा परैरीश्वरः ।
सद्यः हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥
॥ ०१.०१.०२ ॥
निगमकल्पतरोर्गलितं फलम्
शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुकाः ॥
॥ ०१.०१.०३ ॥
शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुकाः ॥
॥ ०१.०१.०३ ॥
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।
सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥
॥ ०१.०१.०४ ॥
सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥
॥ ०१.०१.०४ ॥
त एकदा तु मुनयः प्रातर् हुतहुताग्नयः ।
सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥
॥ ०१.०१.०५ ॥
सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥
॥ ०१.०१.०५ ॥
(ऋषय ऊचुः)
त्वया खलु पुराणानि स इतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥
॥ ०१.०१.०६ ॥
त्वया खलु पुराणानि स इतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥
॥ ०१.०१.०६ ॥
यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।
अन्ये च मुनयः सूत परावरविदो विदुः ॥
॥ ०१.०१.०७ ॥
अन्ये च मुनयः सूत परावरविदो विदुः ॥
॥ ०१.०१.०७ ॥
वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥
॥ ०१.०१.०८ ॥
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥
॥ ०१.०१.०८ ॥
तत्र तत्राञ्जसाऽयुष्मन् भवता यद्विनिश्चितम् ।
पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि ॥
॥ ०१.०१.०९ ॥
पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि ॥
॥ ०१.०१.०९ ॥
प्रायेणाल्पायुषः सभ्य कलावस्मिन्युगे जनाः ।
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥
॥ ०१.०१.१० ॥
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥
॥ ०१.०१.१० ॥
भूरिणि भूरिकर्माणि श्रोतव्यानि विभागशः ।
अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ॥
॥ ०१.०१.११ ॥
अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ॥
॥ ०१.०१.११ ॥
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥
॥ ०१.०१.१२ ॥
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥
॥ ०१.०१.१२ ॥
तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।
यस्यावतारो भूतानां क्षेमाय च भवाय च ॥
॥ ०१.०१.१३ ॥
यस्यावतारो भूतानां क्षेमाय च भवाय च ॥
॥ ०१.०१.१३ ॥
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥
॥ ०१.०१.१४ ॥
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥
॥ ०१.०१.१४ ॥
यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥
॥ ०१.०१.१५ ॥
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥
॥ ०१.०१.१५ ॥
को वा भगवतः तस्य पुण्यश्लोकेड्य कर्मणः ।
शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥
॥ ०१.०१.१६ ॥
शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥
॥ ०१.०१.१६ ॥
तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।
ब्रूहि नः श्रद्धधानानां लीलया दधतः कलाः ॥
॥ ०१.०१.१७ ॥
ब्रूहि नः श्रद्धधानानां लीलया दधतः कलाः ॥
॥ ०१.०१.१७ ॥
अथाख्याहि हरेर्धीमनवतारकथाः शुभाः ।
लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥
॥ ०१.०१.१८ ॥
लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥
॥ ०१.०१.१८ ॥
वयं तु न वितृप्याम उत्तमश्लोकविक्रमः ।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥
॥ ०१.०१.१९ ॥
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥
॥ ०१.०१.१९ ॥
कृतवान् किल कर्माणि सह रामेण केशवः ।
अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥
॥ ०१.०१.२० ॥
अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥
॥ ०१.०१.२० ॥
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन्वैष्णवे वयम् ।
आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥
॥ ०१.०१.२१ ॥
आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥
॥ ०१.०१.२१ ॥
त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।
कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥
॥ ०१.०१.२२ ॥
कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥
॥ ०१.०१.२२ ॥
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।
स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥
॥ ०१.०१.२३ ॥
स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥
॥ ०१.०१.२३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् ।
प्रथमस्कन्धे प्रथमोऽध्यायः ॥
प्रथमस्कन्धे प्रथमोऽध्यायः ॥
वर्तमान श्लोक: